________________
- शङ्कस्मृतिः।
प्रथमो दानमध्ययनज्वैव यजनञ्च यथाविधि । क्षत्रियस्य तु वैश्यस्य कर्मेदं परिकीर्तितम् ।।३
क्षत्रियस्य विशेषेण प्रजानां परिपालनम् । कपिगो(गौ)रक्ष(क्ष्य)बाणिज्यं वैश्यस्य (विशश्च) परिकीर्तितम् ।।४
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्यथ । क्षमा सत्यं दमः शौचं सर्वेपामविशेषतः ॥५ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। तेषां जन्म द्वितीयन्तु विज्ञेयं मौञ्जिबन्धनम् ।। आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा । ब्रह्मक्षत्रविशाब्चैव मौञ्जिबन्धनजन्मनि ॥७ वृत्त्या शूदसमास्तावद्विज्ञेयास्ते विचक्षणः । यावद्वदेन जायन्ते द्विजा ज्ञेयास्ततः परम् ।।८
इति शाहीये धर्मशास्त्रे प्रथमोऽध्यायः ।
॥ अथ द्वितीयोऽध्यायः ॥
ब्राह्मणादीनां संस्कारवर्णनम् । गर्भस्य स्फुटताज्ञाने निपेकः परिकीर्तितः । तत(पुरा)स्तु सन्दमात् कायं पुंसवनं विचक्षणैः ।।१