________________
१४१४
. लघुशवस्मृतिः । अन्येषां नखकर्णानां बाहोनिर्मोचने तथा । सायं संगोपनार्थाय न दुष्येद्रोधवन्धयोः ॥५६ यन्त्रिते गोचिंकित्साया मूढगर्भाविमोचने । यले कृते विपद्येत प्रायश्चित्तं न विद्यते ॥६०
औषधं स्नेहमाहारं दत्तं गोब्राह्मणाय च । यदि कश्चि(काचि)द्विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥६१ स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा। कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ॥६२ बालरत्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्नाशौचं नैव सूनकम् ॥६३ आदन्तजन्मनः सद्य आचूडान्नेशिकी स्मृता । विरान तु व्रतादेशा दशरात्रमतः परम् ॥६४ अहस्त्व दत्तकन्याया वालेषु च विशोधनम् । कुर्वन्नैवाशनौ यात मातुलश्रोत्रिये यथा ॥६५ ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥६६ आममांसं घृतं क्षौद्रं स्नेहाश्च फलसंभवाः । म्लेच्छभाण्डस्थिता ह्यते निष्क्रान्ताः शुचयः स्मृताः ।।६७ दिवा कपित्थच्छायासु रात्रौ दधिशमीषु च । धात्रीफलेषु सप्तम्यामलक्ष्मीर्वसते सदा ॥६८ स(शूर्पवातनखाग्रान्तकेशबन्ध पटोदकम। मार्जनीरेणुसंस्पर्श हन्ति पुण्यं दिवाकृतम् ॥६६