________________
१४१२
लघुशवस्मृतिः। नारायणवलिः कार्यो लोकग्रहभयानरैः । तथा यस्य भवेच्छे यो नान्यथा वाऽब्रवीन्मनुः ॥३७ गोभूहिरण्यहरणे क्षेत्रापणगृहस्य च। .. यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥३८ उद्यताः सह धावन्त एककार्येष्ववस्थिताः । राधेकोऽपि हनेत्तत्र सर्वे ते ब्रह्मघातकाः ॥३६. बहूनामेककार्यपु यद्यको मर्मघातकः । सर्वे ते शुद्धिमि(मृच्छन्ति स एको ब्रह्मघातकः ।।४० महापातकसंस्पर्श स्नानमेव विधीयते। संपृटस्तु यदा भुक्ते कृच्छू सांतपनं चरेत् ।।४६ चाण्डालभाण्डसंस्पृष्टं वापीकूपगतं जलम् । गोमूत्रयावकाहारनिराशेण विशुध्यति । ४२ चाण्डालघटमध्यरथं यस्तोयं पिबति द्विजः । तत्क्षणाक्षय(क्षिप)ते यस्तु प्राजापत्यं समाचरेत् ।।४३ यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । प्राजापत्यं न दातव्यं कृच्छच्छू) सांतपनं स्मृतम् ।।४४ चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्रियः । तदर्पतु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ।।४५ यस्य चा डालि(ली) संयोगो भवेत्कश्चि(त्कचि)दकामतः । तस्य सांतपनं कृच्छू स्मृतं शुद्धयर्थमात्मनः॥४६ चाण्डालोदकसंस्पृष्टः स्नात्वा विप्रो विशुध्यति । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥४७