________________
त्रियाः सपिण्डीकरणमनेकश्राद्धविवेकं ब्रह्मघातक लक्षणश्च । १४११
आयसेन तु पात्रेण यदन्नमुपदीयते ।
भोक्ता विष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत् ॥२७
श्राद्धं कृत्वेतरश्राद्धे यस्तु भुङ्क्तेऽतिविह्वलः । पतन्ति पितरस्तस्य तं मासं रेतपायिनः ||२८ पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिप्रदो होमः श्राद्धं भुक्त्वा वर्जयेत् ॥२६ व्याममात्रं समुत्सृज्य पिण्डास्तत्र प्रदापयेत् । यत्र संस्पर्शनं वाऽपि प्राप्नुवन्ति न विन्दवः || ३० अपुत्रा ये मृताः केचित्गुरुपा वा स्त्रियोऽपि वा । तेभ्यश्चापि प्रकर्तव्यमेकोद्दिष्टं न पार्वणम् ॥३१ मातुः श्राद्ध ं तु पूर्वस्मात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥३२ दशकृत्वः पिवेञ्चाप: सावित्र्याः श्राद्धभुद्विजः । ततः सन्ध्यामुपासीत शुध्यते तदनन्तरम् ||३३ चान्द्रायणं नवश्राद्धं पराको मासिकेन तु । पक्षत्रयेऽपि कृच्छ्रः स्यादेकाहं पुनराधिके । अत ऊर्ध्वं न दोषः स्याच्छङ्कस्य वचनं त ( य )था ॥३४ सर्वविप्रहतानां च शृङ्गिदं सिरीसृपैः । आत्मनस्यागिनां चैव श्राद्धमेषां न कारयेत् ॥३५
उदकं पिण्डदानं च विप्रेभ्यो यच्च दीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे प्रलीयते ॥ ३६ ८६