________________
१४५०
लघुशवामृतिः। [प्रथमो. सपिण्डीकरणादूवं यत्र यत्रोपदीयते । तत्र तत्र त्रयं कुर्याद्वर्जयित्वा मृतेऽहनि ॥१६ अमावास्यां क्षयो यस्य प्रेतपक्षे तथा यदि । सपिण्डीकरणादूवं तस्योक्तः पार्वणो विधिः ॥१७ त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते । प्राप्ते चैका दशदिने पार्वणं तु विधीयते ॥१८ मातुः सपिण्डीकरणं कथं कार्य भवेत्सुतैः । पितामहीसह (ह्यादिभि)स्तस्याः सपिण्डीकरणं स्मृतम् ॥१६ कर्तव्यं प्रत्युप(तु प्रमी) तायाः सपिण्डीकरणं स्त्रियाः। मृताऽ(भा5)पि हि न कतैयं चस्मन्त्राहुतिव्रतैः ।।२० मातुः प्रथमतः पिण्डं निर्विपेत्सुत्रिकासुतः। द्वितीयं तु पितुरतस्यारतृतीयं तु पितुः पितुः ।।२१ अथ चेन्मन्त्रविद्युक्तः शारीरः पङ्क्तिदृ षणः । अदोषं तं यमः प्राह पतितपावन एव सः ।।२२ यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भारत । तानि तस्यैव पूज्यानि न शरीराणि देहिनाम् ।।२३ अग्नौकरणशे तु पितृपात्रे प्रदापयेत् । प्रतिपद्य पितणां च न दद्याद्वैश्वदेविके ।।२४ मृण्मयेषु च पाठोपु श्रद्धं भोजयते द्विजः । अन्नदाताऽपहर्ता च भोक्ता च नरकं व्रजेत् ।।२५ हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः । दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते च किल्विषम् ॥२६