________________
ऽध्यायः ] गङ्गायामस्थिप्रक्षेपेस्वर्गप्राप्तिः, वृषोत्सर्गादिश्राद्धवर्णनम् १४५६
अमिहोत्रं तपः सत्यं वेदानां चैव धारणम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥५ इष्टापूतो (ते) द्विजातीनां सामान्यो (न्ये) धर्मसाधने । अधिकारी भवेक्षुद्रः पूर्त धर्मे न वैदिके ॥६ यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य च । तावद्वर्षसहस्राणिस्वर्गलोके महीयते ॥७ देवतानां पितृणां च जले दद्याजलाञ्जलिम्।
असंस्कृतमृतानां च स्वले दद्याजलाञ्जलिम् ।।८ । . एकादशाहे प्रेतस्य यस्य चोत्सृज (ज्य) ते वृषः। मुच्यते प्रेतलोकाश्च स्वर्गलोकं स गच्छति ॥8 एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत् । यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥१० लोहितो यस्तु वर्ग:न मुखे पुच्छे तु पाण्डुरः। श्वेतः खुरविषाणाभ्यां स वै नीलवृषः स्मृतः॥११ नवश्राद्धं त्रिपक्षे च षण्मासे मासिकेऽब्दिके। पतन्ति पुरुषास्तस्य यो भुङ्क्तेनापदि द्विजः ॥१२ यस्यैतानि न कुर्वीत एकोदिष्टानि षोडश । . प्रेततो न (स्वान्न) विमुच्येत कृतः श्राद्धशतैरपि ॥१३. एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः। अमूलं तद्विजानीयात्स मातृपितृघातकः ॥१४ सपिण्डीकरणादूचं प्रतिसंवत्सरं सुतः । प्रतिमासं यथा तस्य प्रतिसंवत्सरं तथा ॥१५