________________
॥ ॐ तत्सद्ब्रह्मणे नमः ॥
॥ अथ ॥ *॥ लघुशख़स्मृतिः ॥*
श्रीगणेशाय नमः।
॥ प्रथमोऽध्यायः ॥ अथेष्टापूर्तकर्मणोः फलाभिधानवर्णनम्। इष्टापूर्ती तु कर्तव्यो ब्राह्मणेन विशेषतः । इष्टेन लभते स्वर्ग मोक्षं पूर्तेन विन्दति ॥१ एकाहमपि कौन्तेय भूमिष्टमुदकं कुरु । कुलानि तारयेत्सप्त यत्र गौवितृषा भवेत् ॥२ भूमिदानेन यो लोका गोदानेन च कीर्तिताः । ताल्लोकान्प्राप्नुयुर्माः पादपानां प्ररोहणे ॥३ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ।।४