SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः]विवाहोत्सबादिष्वन्तरामृतसूनकेसद्यःशुद्धिविधानवर्ण० १४०७ मोक्षो भवेत् प्रीतिनिवर्तकस्य अध्यात्मयोगैकरतस्य सम्यक् । मोक्षो भवेन्नित्यमहिंसकस्य स्वाध्याययोगागतमानसस्य ।।७ क्रोधयुक्तो यद् यजते यज्जुहोति यदर्छति । सर्व हरति दत्तस्य आमकुम्भइवोदकम् ।।८ अपमानात्तपोवृद्धिः सम्मानात्तपसः क्षयः । अर्चितः पूजतो विप्रो दुग्धा गौरिव सीदति ॥६ आप्यायते यथा धेनुस्तृणैरमृतसम्भवैः । एवं जपश्च होमैश्च पुनराप्यायते द्विजः ॥१० मातृवत् परदारांश्च परद्रव्याणि लोष्ट्रवत् । आत्मवत् सवभूतानि यः पश्यति स पश्यति ॥११ रजकव्याधशैल्पवेणचर्मोपजीविनाम। यो भुङ्क्ते भक्तमेतेषां प्राजापत्यं विशोधनम् ॥१२ अगम्यागमनं कृत्वा अभक्ष्यस्य च भक्षणम् । शुद्धिं चान्द्रायणं कृत्वा अथर्वोक्तं तथैव च ॥१३ अग्निहोत्रं त्यजेद् यस्तु स नरोवीरहा भवेत् । तस्य शुद्धिर्विधातव्या नान्या चान्द्रायणाहते ॥१४ विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके। सद्यः शुद्धिं विजानीयात् पूर्व सङ्कल्पितं चरेत् ॥१५ देवद्रोण्यां विवाहेषु यज्ञेषु प्रतरेषु च। कल्पितं सिद्धमन्नाद्यं नाशौचं मृतसूतके ॥१६ इत्यापस्तम्बोये धर्मशास्त्रे दशमोऽध्यायः । समाप्ताचेयमापस्तम्बस्मृतिः । ॐ तत्सत् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy