SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ [दशमो. आपस्तम्बस्मृतिः। कृष्णाजिनतिलग्राही हरत्यश्वानाञ्च विक्रयो। प्रेतनिर्यातकश्चैव न भूयः पुरुषोभवेत् ॥४३ इत्यापरतम्बीये धर्मशास्त्रे नवमोऽध्यायः । - ॥ अथ दशमोऽध्यायः ॥ , अथ मोक्षाधिकारिणामभिधानवर्णनम् । आचान्तोऽप्यशुचिस्तावद् यावन्नोद्भियते जलम् । उद्धृतेऽप्यशुचिस्तावद् यावद्भूमिर्न लिप्यते ॥१ भूमावपि च लिप्तायां तावत् स्यादशुचिः पुमान् । आसनादुत्थितस्तमाद् यावन्नाऽऽक्रमते महीम् ॥२ न यमं यममित्याहुरात्मा वै यम उच्यते । आत्मा संयमितो येन तं यमः किं करिष्यति ॥३ न तथाऽसिस्तथा तीक्ष्णः सर्पो वा दुरधिष्ठितः । यथा क्रोधो हि जन्तूनां शरीरस्थो विनाशकः॥४ क्षमा गुणो हि जन्तूनामिहामूत्रसुखप्रदः । अरिनित्यसंक्रुद्धो यथाऽऽत्मादुरधिष्टितः । एकः क्षमावतां दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥५ न शक्तिशास्त्राभिरतस्य मोक्षो नचैव रम्यावसथप्रियस्य । न भोजनाच्छादनतत्परस्य एकान्तशीलस्य दृढव्रतस्य ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy