________________
ऽध्यायः] शुल्केनकन्यादानेदोषाभिधानंसशुद्धिवर्णनम्। १४०५
उच्छ्रिष्टोच्छिष्टसंस्पृष्टः कदाचिदुपजायते।। सवर्णेन तदोत्थाय उपश्पृश्य शुचिर्भवेत् । उच्छिष्टोच्छिष्टसंस्पृष्टः सुना शूद्रेण वा द्विजः। उपोष्य रजनीमेकां पञ्चगव्येन शुद्वयति ॥३२ ब्राह्मणस्य सदाकालं शूद्रे प्रेषणकारिणः । भूमावन्न प्रदातव्यं यथैव श्वा तथैव सः॥३३ अनूदकेष्वरप्येषु चौरव्याघ्राकुले पथि । कृत्वा मूत्रं पुरीषा द्रव्यहस्तः कथं शुचिः॥३४ भूमावन्न प्रतिष्ठाप्य कृत्वा शौचं यथार्थतः। उत्सङ्गे गृह्य पक्कान्नमुपस्पृश्य ततः शुचिः ॥३५ मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः। मोहाद्भुक्त्वा त्रिरात्रन्तु गव्यं पीत्वा विशुध्यति ॥३७ उदक्यां यदि गच्छेत्तु ब्राह्मणो मदमोहितः । चान्द्रायणेन शुध्येतब्राह्मणानांच भोजनैः ॥३७ भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा । प्रमादाद् यदि संस्पृष्टो ब्राह्मणो ज्ञानदुर्बलः ॥३८ स्नात्वा त्रिषत्रणं नित्यं ब्रह्मचारी धराशयः। स त्रिरात्रोषितो भूत्वा पञ्चग-येन शुध्यति ॥३६ चाण्डालेन तु संस्पृष्टो यश्चापः पिबति द्विजः। अहोरात्रोषितो भूत्वा त्रिषवणेन शुष्यति ॥४० सायं प्रातस्त्वहोरात्रं पादं कृच्छस्य तं विदुः । सायं प्रातस्तथैवैकं दिनद्वयमयाचितम् ॥४१ दिनद्वयञ्च नाश्नीयात् कृच्छ्राद्धं तद्विधीयते । प्रायश्चित्तं लघु ह्येतत्पापेषु तु यथाऽहतः॥४२