SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आपस्तम्बस्मृतिः। [नवमोजम्मप्रभृतिसंस्कारे श्मशानान्ते च भोजनम् । असपिण्डैर्न कर्तव्यं चूडाकार्ये विशेषतः ॥२१ याजकान्नं नवश्राद्धं सग्रहे चैव भोजनम् । . स्रोणां प्रथमगर्भे च भुक्वा चान्द्रायणं चरेत् ।।२२ ब्रह्मौदने (ऽवसाने) च श्राद्ध च सोमन्तोन्नयने तथा।। अन्नश्राद्ध मृतश्राद्ध भुक्त्वा चान्द्रायणं चरेत् ।।२३ . अप्रजा या तु नारी स्यान्नाश्नीयादेव तद्गृहे। अथ भुञ्जीत मोहाद् यः पूयसं नरकं व्रजेत् ।।२४ अल्लेनापि हि शुल्केन पिता कन्यां ददाति यः। रौरवे बहुवर्षाणि पुरीपं भूत्रमश्नुते ।।२५ स्त्रीधनानि च ये मोहादुपजीवन्ति बान्धवाः । स्वर्ण यानानि वस्त्राणि ते पापा यान्त्यधोगतिम् ।।२६ राजानं तेजआदत्ते शूद्रान्न ब्रह्मवर्चसम् । असंस्कृतन्तु योभुङ्क्ते स भुङ्क्ते पृथिवीमलम् ॥२७ मृतके सूतके चैव गृहीते शशिभास्करे। हस्तिच्छायान्तु यो भुङ्क्ते पापः स पुरुषो भवेत् ॥२८ पुनर्भः पुनरेता च रेतोधा कामचारिणी। आसां प्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ।।२६ मातृघ्नश्च पितृघ्नश्च ब्रह्मघ्नो गुरुतल्पगः। विशेषाद्भुक्तमेतेषां भुत्वा चान्द्रायणं चरेत् ॥३०, रजकव्याधशैलूषवेणुचर्मोपजीविनाम् । भुक्त्वैषां ब्राह्मणश्चान्न शुद्धिं चान्द्रायणेन तु ।।३१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy