________________
ऽध्यायः] मक्षिकाकेशदूषितान्नभोजने प्रायश्चित्तवर्णनम् १४०३
ऊवं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । उद्ध्वं स्नानमधः शौचं मार्जनेनैव शुध्यति ॥१० उपानहावमेव्यं वा यस्य संस्पृशते मुखम् । मृत्तिकाशोधनं स्नानं पञ्चगव्यं विशोधनम् ।।११ दशाहाच्छुध्यते विप्रो जन्महानौ स्वयोनिषु । षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥१२ उपनीतं यदा त्वन्नं भोक्ता च समुपस्थितः । अपीतवत् समुत्सृष्टं न दद्यान्नैव होमयेत् ॥१३ अन्ने भोजनसम्पन्ने मक्षिकाकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भरमना स्पृशेत् ॥१४ शुष्कमांसमयं चान्नं शूद्रान्नं वाप्यकामतः । भुक्त्वा कृच्छ्च रेविप्रो ज्ञानात् कृच्छ्रत्रयं चरेत् ।।१५ अभुक्ते मुञ्चते यश्च भुञ्जन् यश्चापि मुव्यते । भोक्ता च भोजकश्चैव पत्त्या गच्छ ति दुष्कृतम् ॥१६ यञ्च भुङ्क्ते तु भुक्तं वा दुष्टं वाऽपि विशेषतः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥१७ उदके चोदकस्थस्तु स्पलस्थश्च स्थले शुचिः । पादो स्थाप्योभयत्रैव आचम्योभयतः शुचिः ॥१८ उत्तीर्याचम्य उदकादवतीयं उपस्पृशेत् । एवन्तु श्रेयसा युक्तो वरुणेनाभिपूज्यते ॥१६ अग्न्यगारे गवां गोष्ठे ब्राह्मणानाञ्च सन्निधौ। स्वाध्याये भोजने चैव पादुकानां विसर्जनम् ॥२०