________________
ऽध्यायः] शूद्रान्नभोजने निन्दानिरूपणवर्णनम्। १४०१
शूद्रान्नेनोदरथेन यः कश्चिन्मियते द्विजः। स भवेच्छूकरो ग्राम्यो मृतः श्वा वाथ जायते ॥११ ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य तु पर्वणि । वैश्यस्य यज्ञदीक्षायां शूदस्य न कदाचन ॥१२ अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् । वैश्यस्याप्यन्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ।।१३. . : वैश्वदेवेन होमेन देवताभ्यचनैर्जपैः। अमृतं तेन विप्रान्नमृग्य जुःसामसंस्कृतम् ॥१४ व्यवहारानुरूपेण धर्मेण च्छलवर्जितम् । क्षत्रियस्य पयस्तेन भूतानां यच्च पालनम् ॥१५ स्वकर्मणा च वृषभैरनुसृत्याद्यशत्तितः। खलयज्ञातिथित्वेन वैश्यान्नन्तन संस्कृतम् ॥१६ अज्ञानतिमिरान्धस्य मद्यपानरतस्य च । रुधिरं तेन शूद्रान्नं विधिमन्त्रविवर्जितम् ॥१७ आममांसं मधु घृतं धानाः क्षीरं तथैव च । गुडं तक समं ग्राह्यं निवृत्तेनापि शूद्रतः ॥१८ शाकं मांसं मृणालानि तुम्बुरुः शक्तवस्तिलाः। रसाः फलानि पिण्याकं प्रतिग्राह्या हि सर्वतः ॥१६ आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत द्रपदां वा शतं जपेत् । २० द्रव्यपाणिश्च शूद्रेण स्पृष्ठोच्छिष्ठेन कर्हि चित्। तद्विजेन न भोक्तव्यमापस्तम्बोऽब्रवीन्मुनिः ॥२१
इत्यापस्तम्बीये धर्मशास्त्रेऽष्टमोऽध्यायः ।