________________
१४००
आपरतम्बरमृतिः।
[अष्टमो
॥ अथ अष्टमोऽध्यायः॥ सुरादिदूषितकांस्यशुद्धिविधानवर्णनम् । भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते। .. सुराविण्मूत्रसंस्पृष्टं शुध्यते तापलेखनैः ॥११ गवाबातानि कास्यानि शुद्धोच्छिष्टानि यानि तु । दशभिः क्षारैः शुन्यन्ति श्वकाकोपहतानि च ॥२ शौचं सुवर्णनारीणां वायुसूय॑न्दुरश्मिभिः ॥३ रेतस्पृष्टं शवस्पृष्टभाविकन्तु पूदुष्यति । अद्भिर्मदा च तन्मात्रं प्रक्षाल्य च विशुध्यति ।। शुद्धमन्नमविपूस्य पञ्चरात्रेण जीर्यति । अन्नं व्यञ्जनसंयुक्तम मासेन जीय्यति ॥५ पयस्तु दधि मासेन षण्मासेन घृतं तथा । सम्वत्सरेण तैलन्तु कोष्ठे जीर्यति वा नवा भुलते ये तु शूद्रान्नं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं जायन्ते ते मृताः शुनि ॥७ शूद्रान्नं शूद्रसम्पर्कः शूद्रेणैव सहासनम् । शूद्रारज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ॥८ आहित्याग्निस्तु योविप्रः शूद्रान्नान्न निवर्तते। तथा तस्य पूणश्यन्ति आत्मा ब्रह्म त्रयोऽप्रयः ॥६ शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा हन्याच्छुक्रस्य सम्भवः ॥१०