________________
१३६८ आपस्तम्बस्मृतिः। [सप्तमो
रोगेण यद्रजः स्त्रीणामत्यर्थ हि प्रवर्तते। अशुद्धा स्तु न तेनेह तासां वैकारिकं हि तत् ॥२ साध्वाचारा न सा तावद्रजो यावत् प्रवर्तते । वृत्ते रजसि साध्वी स्याद् गृहकर्मणि चेन्द्रिये ॥३ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थहनि शुध्यति ॥४ अन्त्यजातिवपाकेन संस्पृष्टा वै रजस्वला । अहानि तान्यतिकम्य प्रायश्चित्तं प्रकल्पयेत् ॥५ त्रिरात्रमुपवासः स्यात् पञ्चगव्यं विशोधनम् । निशां प्राप्य तु तां योनि प्रजाकारञ्च कारयेत् ॥ रजस्वला त्यजेत् स्पृष्टां शुना च श्वपचेन च ! त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ।।७ . प्रथमेऽहनि पडात्रं द्वितीये तु त्र्यहन्तथा । तृतीये चोपवासस्तु चतुर्थे वह्रिदर्शनात् ॥८ विवाहे वितते यज्ञे संस्कारे च कृते तथा । रजस्वला भवेत् कन्या संस्कारस्तु कथं भवेत् ।। नापयित्वा तदा कन्यामन्यवरलङ्कृताम् । पुनः प्रत्याहुति हुत्वाशेषं कम्म समाचरेत् ॥१० रजस्वला तु संस्पृष्टा प्लवकुक्कुटवायसैः। सा त्रिरात्रोपवासेन पञ्चगव्येन शुन्यति ॥१? उच्छिष्ठेन तु संस्पृष्टा कदाचित् सो रजस्वला। कृच्छ्ण शुद्धते विप्रस्तथा दानेन शुध्यति ।।१२