________________
ऽध्यायः] नीलीवनधारणे नीलीभक्षणे च प्रायश्चित्तम् । १३९७
नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥४ रोमकूपैयदा गच्छेद्रसो नील्यास्तु कर्हिचित् । पतितस्तु भवेद्विप्रखिभिः कृच्छविशुध्यति ॥५ नीलीदारु यदा भिन्द्याद् ब्राह्मणस्य शरीरकम् । . शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत् ॥६ नीलीमध्ये यदा गच्छेत् प्रमादाद् ब्राह्मणः कचित् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥७. नीलीरक्तेन वस्त्रेण यदन्नमुपनीयते । अभोज्यं तद्विजातीनां भुक्ता चन्द्रायणं चरेत् ।।८ भक्षयेद् यस्य नीलीन्तु प्रमादाद् ब्राह्मणः कचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽत्रवीन्मुनिः ।। यावत्यां वापिता नीली तावती चाशुचिमही। प्रमाणं द्वादशाब्दानि अत उद्ध्वं शुचिर्भवेत् ॥१०.
इत्यापस्तम्बीये धर्मशास्त्रे षष्ठोऽध्यायः।
॥ अथ सप्तमोऽध्यायः॥ अन्त्यजादिस्पर्शेरजस्वलायाः, विवाहादिषु कन्याया.
रजोदर्शने प्रायश्चित्तम् । नानं रजस्वलायास्तु चतुर्थेऽहनि शस्यते ! वृत्ते रजसि गम्या स्त्री नानिवृत्ते कथञ्चन ॥१.