________________
१३६६
— आपस्तम्बरमृतिः। [पञ्चमोविण्मूत्रभक्षणे विप्रस्तप्तकृच्छ्रे समाचरेत् । श्वकाकोच्छिष्टभोगे च प्राजापत्यविधिः स्मृतः ॥१० उच्छिष्टः शते विप्रो यदि कश्चिदकामतः। शुनः कुक्कुटशूद्रांश्च मद्यभाण्डं तथैव च ॥११ पक्षिणाधिष्ठितं यच्च यदमेध्यं कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥१२ वैश्येन च यदा स्पृष्ट उच्छिष्टेन कदाचन । नानं जपञ्च त्रैकाल्यं दिनस्यान्ते विशुध्यति ॥१३ विप्रोविप्रेण संस्पृष्ट उच्छिष्टेन कदाचन । नात्वाचम्य विशुद्धः स्यादापरतम्बोऽनवीन्मुनिः ॥१४
इत्यापस्तम्बीये धर्मशास्त्रे पञ्चमोऽध्यायः।
॥ षष्ठोऽध्यायः॥ अथ नीलीवनधारणे नीलीभक्षणे च प्रायश्चित्तम् । अत उद्ध्वं प्रवक्ष्यामि नीलीवस्त्रस्य यो विधिः । स्त्रीणां क्रोडाथसम्भोगे शयनीये न दुष्यति ॥१ पालने विक्रये चैव तवृत्तरुपजीवने । पतितस्तु भवेद्विव स्त्रिभिः कृच्छ विशुष्यति ॥२ स्नानं दानं तपोहोमः स्वाध्यायः पितृतपणम् । पञ्चयक्षा वृथा तस्य नीलीवनस्य धारणात् ॥३