SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ध्यायः ] वैश्यान्त्यजश्वकाकोच्छिष्टभोजनेप्रायश्चित्तवर्णनम् । ५३६५ ॥ अथ पञ्चमोऽध्यायः ॥ अथ वैश्यान्त्यजश्वकाकोच्छिष्टभोजनेप्रायश्चित्तवर्णनम् । चाण्डालेन यदा स्पृष्टो द्विजवर्णः कदाचन । अनभ्युक्ष्य पिवेत्तोयं प्रायश्चित्तं कथं भवेत् ॥१ ब्राह्मणस्तु त्रिरात्रेण पञ्चगव्येन शुध्यति । क्षत्रियस्तु द्विरात्रेण पञ्चगव्येन शुध्यति ॥२ चतुर्थस्य तु वर्णस्य प्रायश्चित्तं न वै भवेत् । व्रतं नास्ति तपो नास्ति होमो नैव च विद्यते ॥३ पञ्चगव्यं न दातव्यं तस्य मन्त्रविवर्जनात्।। ख्यापयित्वा द्विजानान्तु शूद्रो दानेन शुध्यति ॥४ ब्राह्मणस्य यदोच्छिष्टमश्नात्यज्ञानतो द्विजः । अहोरात्रन्तु गायत्र्या जपं कृत्वा विशुध्यति ॥५ उच्छिष्टं वैश्यजातीनां भुङ्क्ते ज्ञानाद् द्विजो यदि । शङ्खपुष्पीपयः पीत्वा त्रिरात्रेणेव शुध्यति ॥६ ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । न तत्र दोपं मन्यन्ते नित्यमेव मनीपिणः ।।७ उच्चिष्टमितरस्त्रीणामश्नीयात् पिवतेऽपिवा । प्राजापत्येन शुद्धिः स्याद्भगवानङ्गिरा बीत् ।।८ अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः । चान्द्रायणं तदद्धिं ब्रह्मक्षत्रविशां विधिः ॥8
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy