________________
१३६४
[ चतुर्थी
आपस्तम्बस्मृतिः ।
भुक्त्वोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा । प्रमादात् स्पर्शनं गच्छेत्तत्र कुर्याद्विशोधनम् ॥४ गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् । जपं त्रिरात्रमनश्नन् पञ्चगव्येन शुध्यति ॥ ५ चाण्डालेन यदा स्पृष्टो विण्मूत्रे च कृते द्विजः । प्रायश्चित्तं त्रिरात्रं स्यादभुक्त्वोच्छिष्टः षडाचरेत् ||६ पानमैथुनसम्पर्क तथा मूत्रपुरीषयोः । सम्पर्कं यदि गच्छेत्तु उदक्या चान्त्य जैस्तथा ॥७ एतेरेव यदा स्पृष्टः प्रायश्चित्तं कथं भवेत् । भोजने च त्रिरात्रं स्यात् पाने तु त्र्यहमेव च ॥८ मैथुने पादकृच्छ्र स्यात्तथा मूत्रपुरीषयोः । दिनमेकं तथा मूत्रे पुरीषे तु दिनत्रयम् ॥ एकाहं तत्र निर्दिष्टं दन्तधावनभक्षणे ॥१० वृक्षारूढे तु चाण्डाले द्विजस्तत्रैव तिष्ठति । फलानि भक्षयेत्तस्य कथं शुद्धिं विनिर्दिशेत् ॥ ११ ब्राह्मणान् समनुज्ञाप्य सवासाः स्नानमाचरेत् । एकरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ||१२
मेध्यं स्पृशति द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १३ इत्यापस्तम्बीये धर्मशास्त्रे चतुर्थोऽध्यायः ।