SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १३६० आपस्तम्बस्मृतिः। प्रथमोशृङ्गभङ्गेऽस्थिभङ्गे च लागूलस्य च कर्त्तने । सप्तरात्रं पिबेद् दुग्धं यावत्स्वस्था पुनर्भवेत् ॥२८ गोमूत्रेण तु संमिश्र यावकं भक्षयेद् द्विजः । एतद्विमिश्रितं चैव मुक्तञ्चोशनसा स्वयम् ॥२६ देवद्रोण्यां विहारेषु कूपेष्वायतनेषु च । एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते ॥३० एका पादात्तु बहुभिदेवाद्वयापारिता क्वचित् । पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥३१ यन्त्रणे गोश्चिकित्सार्थे मूढगर्भविमोचने । यत्ने कृते विपत्तिश्चेत् प्रायश्चित्तं न विद्यते ॥३२ सरोमं प्रथमे पादे द्वितीये श्मश्रु(धारणम)कर्त्तनम् । तृतीये तु शिखा धार्या सशिखन्तु निपातने ॥३३ सर्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम्। .. एवमेव तु नारीणां शिरसो मुण्डनं स्मृतम् ॥३४ इत्यापस्तम्बीये धर्मशास्त्रे प्रथमोऽध्यायः । ॥ अथ द्वितीयोऽध्यायः॥ अथ शुद्धयशुद्धिविवेकवर्णनम्। कारुहस्तगतं पुण्यं यच्च प्रामा(पात्रा)द्विनिःस्मृतम् । स्त्रीबालवृद्धाचरितं प्रत्यक्षादृष्टमेव च ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy