________________
ऽध्यायः] गोहत्याप्रायश्चित्तवर्णनम् । १३८६
घण्टाभरणदोषेण गौस्तु यत्र विपद्यते । चरेदर्द्धव्रतं तत्र भूषणार्थं कृतं हि तत् ॥१७ दमने वा निरोधे वा संघाते चैव योजने । स्तम्भशृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥१८ पाषाणैर्ल गुडैर्वापि शस्त्रेणान्येन वा बलात् । निपातयन्ति ये गास्तु तेषां सर्व विधीयते ॥१६ प्राजापत्यं चरेद्वितः पादोनं क्षत्रियश्चरेत् । कृच्छार्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ।।२० द्वौ मासौ दापयेद् वत्सं द्वौ मासौ द्वौ रतनौ दुहेत् । द्वौ मासावेकवेलायां शेषकाले यथारुचि ॥२१ दशरात्रार्द्ध मासेन गौस्तु यत्र विपद्यते । सशिखं वपनं कृत्वा प्राजापत्यं समाचरेत् ।।२२ हलमष्टगवं धर्म षड्गवं जीवितार्थिनाम् । चतुर्गवं नृशंसानां द्विगवञ्च जिघांसिनाम् ।।२३ अतिवाहातिदोहाभ्यां नासिका दने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ।।२४ न नारिकेलबालाभ्यां न मुजेन न चर्मणा । एभिर्गास्तु न बध्नीयाद् वद्ध्या परवशोभवेत् ॥२५ कुशैः काशैश्च बन्नीयाद् वृषभं दक्षिणामुखम् । पादलग्नाग्निदोषेषु प्रायश्चित्तं न विद्यते ॥२६ व्यापन्नानां बहूनान्तु रोधने वन्धनेऽपि च । भिषमिथ्योपचारे च द्विगुणं गोव्रतश्चरेत् ॥२७