SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १३८२ कात्यायनस्मृतिः। [अष्टाविंशतिः प्रत्यब्दं यदुपाकर्म सोत्सर्ग विधिवद् द्विजैः। क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥१७ अयातयामैश्छन्दोभिर्यत् कर्म क्रियते द्विजैः। क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम् ॥१८ गायत्रीश्च सगायत्रां वार्हस्पत्यमिति त्रिकम् । शिष्येभ्योऽनूच्य विधिवदुपाकुर्यात्ततः श्रुतिम् ।।१६ छन्दसामेकविंशानां संहितायां यथाक्रमम् । न च्छन्दस्काभिरेवाभिर्राद्याभिर्होम इष्यते ॥२० पर्वभिश्चैव गानेषु ब्राह्मणेषूत्तरादिभिः । अङ्गेषु चर्चामन्त्रेषु इति षष्टिर्जुहोतयः ।।२१ इति सप्तविंशतिः खण्डः। ॥ अथाष्टाविंशतिः खण्डः ॥ अथ प्रायश्चित्तवर्णनमुपाकर्मणः फलनिरूपणवर्णनम् । अक्षतास्तु यवाः प्रोक्ता भ्रष्टाधाना भवन्ति ते । भ्रष्टास्तु ब्रीहयो लाजा घटाः षण्डिक उच्यते ॥१ नाधीयीत रहस्यानि सोत्तराणि विचक्षणः । नचोपनिषदश्चैव षण्मासान् दक्षिणायनात् ॥२ उपाकृत्योदगयने ततोऽधीयीत धर्मवित् । उत्सर्गश्चैक एवैषां नेष्ट्यं प्रौष्ठपदेऽपि वा ॥३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy