________________
खण्डः ] प्रायश्चित्तवर्णनम् ।
१३८१ लवणं मधु मांसश्च क्षारांशो येन हूयते । उपवासे न भुञ्जीत नोकरात्रौ न किश्चन ॥६ स्वकाले सायमाहुत्या अप्राप्ती होतहव्ययोः । प्राक्प्रातराहुतेः कालः प्रायश्चित्ते हुते सति ॥ प्राक्सायमाहुतेः प्रातोमकालानविक्रमः। प्रापौर्णमासाद् दर्शस्य प्राग्दर्शादितरस्य तु ॥८ वैश्वदेवे त्वतिक्रान्ते अहोरात्रमभोजनम् । प्रायश्चित्तमथो हुत्वा पुनः सन्तनुयाद् व्रतम् ।। होमद्वयात्यये दर्शपौण्मासात्यये तथा । पुनरेवाग्निमादध्यादिति भार्गवशासनम् ।।१० अनृचो माणवो ज्ञेय एणः कृष्णमृगः स्मृतः। . रुरुगौरमृगः प्रोक्तस्तम्बलः शोण उच्यते ॥११ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः। ललाटसंमितो राज्ञः स्यात्तु नाशान्तिको विशः ॥१२ ऋजवस्ते तु सर्वे ग्यु बगाः सौम्यदर्शनाः । अनुद्वेगकरा नृणां सत्वचोऽनग्निदूषिताः ॥१३ गौविशिष्टतमा विप्रवेदेष्वपि निगयते । न ततोऽन्यद्वरं यस्मात्तस्माद्गौवर उच्यते ॥१४ येषां बतानामन्तेषु दक्षिणा न विधीयते। वरस्तत्र भवेहानमपि वाच्छादयेद् गुरुम् ॥१५ अस्थानोच्छासविच्छेदघोषणाध्यापनादिकम् । प्रामाणिकं श्रुतौ यत् स्याद्यातयामत्वकारि तत् ॥१६