SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १३७८ कात्यायनस्मृतिः। [षड़विश: ब्रह्मचारी समादिष्टो गुरुणा व्रतकर्मणि । वाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत्॥१३ सशिखं वपनं कायमानानाद्ब्रह्मचारिणा। आशरीरविमोक्षाय ब्रह्मच न चेद्भवेत् ॥१४ वपनं नास्य कर्तव्यमांगौदानकव्रतात् । प्रतिनो वत्सरं यावत्षण्मासानिति गौतमः॥ न गात्रोत्सादनं कुर्यादनापदि कदाचन । जलक्रीडामलङ्कारान् व्रती दण्ड इवाप्लवेत्॥१५ देवतानां विपर्यास जुहोतिषु कथं भवेत् । सर्व प्रायश्चित्तं हुत्वा क्रमेण जुहुयात पुनः॥१६ संस्कारा अतिपोरन् स्वकालाचेत् कथञ्चन । हुत्वैतदेव कर्तव्या ये तूपनयनादधः ॥१७ अनिष्ठा नवयज्ञेन नवान्नं योत्यकामतः । वैश्वानरश्चरुस्तस्य प्रायश्चितं विधीयते ॥१८ इति पञ्चविंशतिखडः --- ॥ षड़विंशः खण्डः॥ नवयज्ञकालाभिधानवर्णनम् ।। चरुः समशनीयो यस्तथा गोयज्ञकर्मणि । वृषभीत्सर्जने चैव अश्वयज्ञे तथैव च ॥१ श्रावण्यां वा प्रदोष यः कृष्यारम्भे तथैव च । कथमेतेषु निर्वापाः कथञ्चैव जुहोतयः॥र देवता सङ्ख्या ग्राह्या निर्वापांस्तु पृथक् पृथक् । तूष्णी द्विरेव गृहीयाद्धोमश्चापि पृथक् पृथक् ॥३.
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy