________________
खण्ड:] नवयशेन विना नवान्नभोजने प्रायश्चित्तवर्णनम्। १३७७
अग्नेः स्थाने वायुचन्द्रसूर्ध्यावहुवदूह्य च । समस्य पञ्चमीसूत्रे चतुश्चतुरितिश्रुतेः ॥२ . प्रथमे पञ्चके पापी लक्ष्मीरिति पदं भवेत् । अपि पश्चसु मन्त्रेषु इति यज्ञविदो विदुः ॥३ द्वितीये तु पतिघ्नी स्यादपुत्रेति तृतीयके । चतुर्थे त्वपसव्येति इदमाहुतिविंशकम् ॥४ धृतिहोमे न प्रयुज्यायोनामसु तथाष्टसु। चतुर्थ्यामध्न्य इत्येतद्गोनामसु हि हूयते ॥५ लताप्रपल्लवो बुध्नः शुङ्गेति परिकीर्त्यते। पतिव्रता व्रतवती ब्रह्मबन्धु स्तथाऽश्रुतः॥६ शिलाटु नीलमित्युक्तं प्रथ्नः स्तवक उच्यते । कपुष्णिकाभितः केशान् मूर्ध्नि पश्चात् कपुच्छलम् ।।७ श्वाविच्छलाका शलली तथा वीरतरः शरः । तिलतण्डुलसम्पकः षरः सोऽभिधीयते ।।८ नामधेये मुनिवसुपिशाचाबहुवत् सदा। यक्षाश्च पितरो देवा यष्टव्यास्तिथिदेवताः॥ आग्नेयायेऽथ सार्पाद्ये विशाखाद्य तथैव च । आषाढाये धनिष्ठाद्ये अश्विन्याय तथैव च ।।१० द्वन्द्वान्येतानि बहुववृक्षाणां जुहुयात् सदा । द्वन्द्वद्वयं विवच्छेद्यमवशिष्टान्यथैकवत्।।११ देवतास्वपि हूयन्ते बहुवत् (सर्ग्यपि त्रयः)सार्वपित्तयः । देवाश्च वसवश्चैव द्विवदेवाश्विनौ सदा ।।१२