SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ विदेशस्थमृतपुरुषाणां दाहसंस्कारवर्णनम् । मा शोकं कुरुतानित्ये सर्वस्मिन् प्राणधर्मणि । धमं कुरुतं यत्नेन यो वः सह गमिष्यति ॥४ मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् । यः करोति स संमूढो जलबुबुदसन्निभे ॥५ मन्त्री वसुमती नाशमुदधिदैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ ६ पभ्वधा सम्भृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥७ सर्वेऽक्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥८ श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नतः ॥ ६ एवमुक्ता व्रजेयुस्ते गृहांलघुपुरःसराः । नानाग्निस्पर्शनाज्याशैः शुध्येयुरितरे कृतैः ॥१० इति द्वाविंश: खण्ड: । खण्डः ] ॥ अथ त्रयोविंशः खण्डः ॥ अथ विदेशस्थमृतपुरुषाणांदाहसंस्कारवर्णनम् । एवमेवाहिताग्नेषु पात्रन्यासादिकं भवेत् । कृष्णाजिनादिकश्चात्र विशेषः सूत्रचोदितः ॥ १ विदेशमरणेऽस्थीनि ह्याहृत्याभ्यज्य सर्पिषा । दाहयेदूर्णयाच्छाद्य पात्रन्यासादि पूर्ववत् ॥२ १३७३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy