________________
१३७२ कात्यायनस्मृतिः।
[द्वाविंशः मुषलेन सह न्युब्जमन्तरूवोरुलूखलम् । चत्रौवीलीकमत्रवमनश्रुनयनोविभीः ॥११ अपसव्येन कृत्वैतद्वाग्यतः पितृदिङ्मुखः । अथाग्नि सव्यजान्वक्तो दद्यादक्षिणतः शनैः ॥१२ अस्मात्त्वमधिजातोऽसि त्वयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहेति यजुरीरयन् ॥१३ एवं गृहपतिर्दग्धः सर्व तरति दुष्कृतम् । यश्चैनं दाहयेत् सोऽपि प्रजां प्राप्नोत्यनिन्दिताम् ।।१४ यथा स्वायुधधृक् पान्थो घरण्यान्यपि निर्भयः । अतिक्रम्यात्मनोऽभीष्टं स्थानमिष्टांश्च विन्दति ॥१५ एवमेषोऽग्निमान् यज्ञपात्रायुधविभूषितः। लोकानन्यानतिक्रम्य परं ब्रह्मैव विन्दति ॥१६
इत्यैकविंशः खण्डः
॥ अथ द्वाविंशः खण्डः ॥
अथ दाहसंस्कारवर्णनम् । अथानवे(प)क्षयेत्पापः सर्व एव शवस्पृशः । स्नात्वा सचैलमाचम्य दधुरस्योदकं स्थले ॥१ गोत्रनामानुवादान्ते तपैयामीत्यनन्तरम् । दक्षिणामान कुशान् कृत्वा सतिलन्तु पृथक् पृथक् ॥२ एवं कृतोदकान् सम्यक् सर्वान् शाद्वलसंस्थितान् । आप्लुत्य पुनराचान्तान् वदेयुस्तेऽनुयायिनः ॥३