SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १३६८ कात्यायनस्मृतिः। [एकोनविंशः विनयावनताऽपि बी भर्तुर्या दुर्भगा भवेत् ।। अमुत्रोमाग्निभतृणामवज्ञातिकता तथा ।।८ श्रोत्रियं सुभगां गाश्च साग्निमग्निचितिं तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ।। पापिष्ठं दुर्भगामन्त्यं नग्नमुत्कृत्तनासिकम् । प्रातरुत्थाय यः पश्येत् स कालरुपयुज्यते ॥१० पतिमुलाच मोहात् स्त्री के कंन नरकं ब्रजेत् । कुच्छ्रान्मनुष्यतां प्राप्य किं किं दुःखं न विन्दति ॥११ पतिशुश्रूषयैव श्री कान लोकान् समश्नुते । दिवः पुनरिहायाता सुखानामम्बुधिर्भवेत् ॥१२ सदारोऽन्यान् पुनरान् कथञ्चित् कारणान्तरात् । य इच्छेदग्निमान् कर्तुं घहोमोऽस्य विधीयते ॥१३ स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन । न साहिताग्नेः स्वं कर्म लौकिकेऽग्नौ विधीयते ॥१४ षडाहुतिकमन्येन जुहुयाद् ध्रुवदर्शनात्। न यात्मनोऽयं स्यात्तावद्यावन्न परिणीयते ॥१५ पुरस्तात् त्रिविकल्पं यत् प्रायश्चित्तमुदाहृतम् । तत्पडाहुतिकं शिष्टैर्यज्ञविद्भिः प्रकीर्तितम् ॥१६ एकोनविंशतितमः खण्डः इति कात्यायन(वा-गोभिले)विरचिते कर्मप्रदीपे द्वितीयः प्रपाठकः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy