________________
१३६०
सकर्तव्यता स्त्रीधर्मवर्णनम् । . याज्ञवास्तुनि मुष्ट्याश्च स्तम्बे दर्भवटौ तथा । दर्भसंख्या न विहिता विष्टरास्तरणेषु च ॥
इत्यष्टादशः खण्ड ।
॥ एकोनविंशतिः खडः ।।
अथ सकतव्यता स्त्रीधर्मवर्णनम् निःक्षिप्याग्नि स्वदारेषु परिकल्प्यात्विजं तथा । प्रवसेत् कार्यवान् विप्रो मृषव न चिरं कचित्॥१ मनसा नैत्यकं कर्म प्रवसन्नप्यतन्द्रितः। उपविश्य शुचिः सर्व यथाकालमनुद्रवेत् ॥२ पल्या चाप्यवियोगिन्या शुश्रूष्योऽग्निविनीतया । सौभाग्यवित्तावैधव्यकामया भर्तृभक्तया ॥३ या वा स्याद्वीरसूरासामाज्ञासम्पादिनी प्रिया । दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ॥४ दिनत्रयेण वा कर्म यथा ज्येष्ठं स्वशक्तितः । विभज्य सह वा कुर्युयथाज्ञान(मशाठ्यवत् )श्व शास्त्रवत् ॥५ स्त्रीणां सौभाग्यतो ज्यैष्ठं विद्ययैव द्विजन्मनाम् । नहि ख्यात्या न तपसा भर्त्ता तुष्यति योषिताम् ॥६ भर्तुरादेशवत्तिन्या यथोमा बहुभित्रतः।। अग्निश्च तोषितोऽमुत्र सा स्त्री सौभाग्यमाप्नुयात् ।।७.