SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १३६६ . कात्यायनस्मृतिः। [अष्टादसः अग्नयेऽप्सुमते चैव जुहुयाद्वैद्युतेन चेत् । अग्नये शुचये चैव जुहुयाश्चेद नग्निना ॥१३ गृहदाहाग्निनाग्निस्तु यष्टव्यः क्षामवान् द्विजः। दावाग्निना च संसगो हृदयं यदि तप्यते ॥१४ द्विभूतो यदि संसृज्येत् संसृष्टमुपशामयेत् । असंसृष्टं जागरये गिरिशमैवमुक्तवान् ॥१५ न स्वेऽग्नावन्यहोमः स्यानमुक्त्वैका समिदाहुतिम् । स्वगर्भ(स्वभगः)सक्रियार्थाश्च यावश्चासौ प्रजायते ॥१६ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । न हि पित्रा समानीतः पुत्रस्य भवति कचित् ॥१७ यस्याग्नावन्यहोमः स्यात् स वैश्वानरदैवतम् । चरं निरुय जुयात् प्रायश्चित्तं तु तस्य तत् ॥१८ परेणाग्नौ हुते स्वार्थ परस्याग्नौ हुते स्वयम् । पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥१६ अनिष्टा नवयज्ञेन नबान्नप्राशने तथा। भोजने पतितानस्य चश्वानरो भवेत् ।।२० स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु । पिण्डानोद्वहनात्तेषां तायाभावे तु तत्क्रमात् ॥२१ भूतप्रवाचने पनी यद्यसन्निहिता भवेत् । रजोरोगादिना तत्र व.थं कुर्वन्ति याशिकाः २२ महानसेनं या कुर्यात् सवर्णा तां प्रवाचयेत् । प्रणवाद्यपि वाबुर्यात् कात्यायनवचो यथा ॥२३ 20
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy