________________
खण्डः ]
द्वितीयादिस्त्रीकृतेसतिबैदिकामिवर्णनम् ।
॥ अथ विंशः खण्डः ।।
अथ द्वितीयादिस्त्रीकृते सतिवैदिकाग्निवर्णनम् ।
असमक्षन्तु दम्पत्योर्होतव्यं नर्त्विगादिना । द्वयोरप्यसमक्षं हि भवेद् हुतमनर्थकम् ॥१ विहायाग्निं सभार्यश्चेत् सीमामुल्लङ्घय गच्छति । होमकालात्यये तस्य पुनराधानमिष्यते ॥२ अरण्योः क्षयनाशाग्निदाहेष्वमिं समाहितः । पालयेदुपशान्तेऽस्मिन् पुनराधानमिष्यते ॥ ३ ज्येष्ठा चेद्बहुभार्यस्य अतिचारेण गच्छति । पुनराधानमन्त्रैक इच्छन्ति न तु गौतमः ॥४ दाहयित्वाग्निभिर्भार्या सदृशीं पूर्वसंस्थिताम् । पात्रश्चाथाग्निमादध्यात् कृतदारोऽविलम्बितः ||५ एवंवृत्तां सवर्णा' स्त्रीं द्विजातिः पूर्वसारिणीम् । दाहयित्वाग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ६ द्वितीयाचैव यः पत्नी दहेद्वैतानिकाग्निभिः । जीवत्यां प्रथमायान्तु ब्रह्मघ्नेन समं हि तत् ॥७ मृतायान्तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । ब्रह्मोज्यं तं विजानीयाद् यश्च कामात् समुत्सृजेत् ॥८ मृतायामपि भय्यायां वैदिकानि न हि त्यजेत् । उपाधिनापि तत् कर्म यावज्जीवं समापयेत् ॥६
१३६६