________________
१३६४
कास्यायनस्मृतिः ।
यावदर्थमुपादाय हविषोऽर्भकमर्भकम् । चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत् ॥१६ पितुरुत्तर कष्वंशे मध्यमे मध्यमस्य तु । दक्षिणे तत्पितुश्चैव पिण्डान् पर्वणि निर्वपेत् ॥ २० बाममावर्त्तनां केचिदुद्गन्तं प्रचक्षते । सवा गौतमशाण्डिल्यौ शाण्डिल्यायन एव च ॥ २१ आवृत्य प्राणमायम्य पितॄन् ध्यायन् यथार्थतः । जपस्तेनैव चावृत्य ततः प्राण प्रमोचयेत् ॥ २२ शाकश्व फाल्गुनाष्टम्यां स्वयं परन्यपि वा पचेत् । यस्तु शाकादिको होम: कार्योऽपूपाष्टकावृतः ॥२३ अन्वाष्टक्यं मध्यमायामिति गोभिलगोतमौ । वार्कण्डिश्च सर्वासु कौत्सो मेनेऽष्टकासु च ॥२४ स्थालीपाकं पशुस्थाने कुर्याद्यद्या नुकल्पितम् । श्रपयेत्तं सवत्सायास्तरुण्यागोः पयस्तथा ॥ २५
इति सप्तदश: खण्ड: ।
॥ अष्टादशः खण्डः || अथ विवाहामिहोमविधानवर्णनम् ।
सायमादि प्रातरन्तमेकं कर्म प्रचक्षते । दर्शान्तं पौर्णमासाद्यमेकमेव मनीषिणः ॥ १
[ अष्टादशः