________________
खण्डः] श्राद्ध-तिथिविशेषेण विधिवर्णनम्। १३६१
स्वपितुः पितृकृत्येषु ह्यधिकारो न विद्यते । न जीवन्तमतिक्रम्य किञ्चिदद्यादिति श्रुतिः ॥१२ पितामहे ध्रियते च पितुः प्रेतस्य निर्वपेत् । पितुस्तस्य च वृत्तस्य जीवेच्चेत् प्रपितामहः ॥१३ पितुः पितुः पितुश्चैव तस्यापि पितुरेव च । कुर्यात् पिण्डत्रयं यस्य संस्थितः प्रपितामहः ॥१४ जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः । पितुः पितृभ्यो वा दद्यात् स्वपितेत्यपरा श्रुतिः ॥१५ पितामहः पितुः पश्चात् पश्चत्वं यदि गच्छति। पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोड़शम् ॥१६ नैतत् पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः । पितुः सपिण्डनं कृत्वा कुन्मिासानुमासिकम् ॥१७ असंस्कृतौ न संस्कायौं पूव्वौं पौत्रप्रपौत्रकैः। पितरं तत्र संरकुर्य्यादिति कात्यायनोऽब्रवीत् ॥१८ पापिष्ठमति शुद्ध न शुद्ध पापीकृतापि वा। पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥१६ ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाञ्च मृते देयं येभ्य एव ददात्यसौ ॥२० मातुः सपिण्डीकरणं पितामह्या सहोदितम् । यथोक्तेनैव कल्पेन पुत्रिकया न चेत् सुतः ॥२१ न योषिद्भ्यः पृथग् दद्यादवसानदिनाहते। स्वभर्तृपिण्डमात्राभ्यस्तप्तिरासा यतः स्मृता ॥२२