________________
१३६०
कात्यायनस्मृतिः ।
यदा चतुर्दशीयामं तुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ॥२ यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः । अनयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि ॥ ३ यञ्चोक्तं दृश्यमानेऽपि तच्चतुर्द्दश्यपेक्षया । अमावास्यां प्रतीक्षेत तदन्ते वापि निर्वपेत् ॥४ अष्टमेऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याष्टमांशे च पुनः किल भवेद्णुः ॥५ आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥६ अत्रेन्दुराद्ये प्रहरेऽवतिष्ठते चतुर्थभागो न कलावशिष्टः । तदन्त एव क्षयमेति कृत्स्नमेवं ज्योतिश्चक्रविदोवदन्ति ॥७ यस्मिन्नब्दे द्वादशैकश्च यव्य
स्तस्मिंस्तृतीयया परिदृश्यो नोपजायते ।
[ षोडशः
एवं चारं चन्द्रमसो विदित्वा
क्षीणे तस्मिन्नपराह्न च दद्यात् ॥८ सम्मिश्रा या चतुर्दश्या अमावास्या भवेत् क्वचित् । खवितां तां विदुः केचिद् गताध्वामिति चापरे ॥ वर्द्धमानाममावास्यां लभेश्वेदपरेऽहनि ।
यामांस्त्रीनधिकान् वापि पितृयज्ञरततो भवेत् ॥ १०॥ पक्षादावेव कुब्बत सदा पक्षादिकं चरुम् । पूर्वाह एव कुर्व्वन्ति विद्धो ऽप्यन्ये मनीषिणः ॥ ११