________________
१३५८
कात्यायनस्मृतिः। [पञ्चदशः विदध्यादौत्रमन्यश्चेदक्षिणार्द्धहरो भवेत् । स्वयञ्चेदुभयं कुर्यादन्यस्मै प्रातिपादयेत् ॥३ कुलविंजमधीयानं सन्निकृष्टं तथा गुरुम् । नातिकामेत् सदा दित्सन् य इच्छेदात्मनो हितम् ॥४ अहमस्मै ददामीति एवमाभाष्य दीयते । नैतावष्ट्या ददतः पात्रेऽपि फलमस्ति हि ॥५ दूरस्थाभ्यामपि द्वाभ्यां प्रदाय मनसा वरम् । इतरेभ्यस्ततो देयादेष दानविधिः परः॥६ समिटमधीयानं ब्राह्मणं यो व्यतिक्रमेत् । यहदाति तमुलवय ततस्तेयेन युज्यते ॥७ यस्य त्वेक गृहे मूल् दूरसञ्च गुणान्वितः । गुणान्विताय दातव्यं नास्ति मूर्ख व्यतिक्रमः ।।८ ब्राह्मणाभिक्रमो नास्ति विप्रे वेदविवजिते। ज्वलन्तममिमुत्सृज्य न हि भस्मनि हूयते ॥ आज्यस्थाली च कर्तव्या तैजसद्रव्यसम्भवा । महीमयी वा कर्तव्या सर्वास्वाज्याहुतीषु च ।।१० आज्यस्थाल्याः प्रमाणं तु यथाकामन्तु कारयेत् । सुदृढामवणां भद्रामाज्यस्थाली प्रचक्षते ॥११ तिर्यगूद्धवं समिन्मात्रा दृढा नातिवृहन्मुखी। मृन्मय्यौदुम्बरी वाऽपि चरुस्थाली प्रशस्यते ॥१२ स्वशाखोक्तः प्रसुस्विनो सदग्धोऽकठिनः शुभः ।। नचातिशिथिलः पाच्यो न चधारसस्तथा ॥१३