________________
खण्डः ]
ब्रह्मयज्ञविधिवर्णनम् । .. १३५७ सामान्यपि पठन् सोमघृतकुल्याभिरन्वहम् । मेदः कुल्याभिरपिच आथर्वाङ्गिरसः पठन् ॥१० मांसक्षीरोदनमधुकुल्याभिस्तर्पयेत् पठन् । वाकोवाक्यं पुराणानि इतिहासानि चान्वहम् ॥११ भृगादीनामन्यतममेतेषां शक्तितोऽन्वहम् । पठन् मवाज्यकुल्याभिः पितृनपि च तर्पयेत् ॥१२ ते तृप्तास्तर्पयन्त्येनं जीवन्तं प्रेतमेव च ।। कामचारी च भवति सर्वेषु सुरसमसु ॥१३ जुळण्येनो न तं स्पृशेत् पंक्तिञ्चैव पुनाति सः । यं यं क्रतुश्च पठति फलभात्तस्य तस्य च । वसुपूर्णा वसुमती त्रिर्दानफलमाप्नुयात् । ब्रह्मयज्ञादपि ब्रह्म दानमेवातिरिच्यते ॥१५
इति चतुर्दशखण्डः।
॥ पञ्चदशखण्डः ॥
अथ यज्ञविधिवर्णनम्। ब्रह्मण दक्षिणा देया यत्र या परिकीर्तिता। कर्मान्तेऽनुच्यमानापि पूर्णपात्रादिकां भवेत् ॥१ यावता बहुभोक्तस्तु तृप्तिः पूर्णेन विद्यते । नावराद्धयमतः कुर्यात् पूर्णपात्रमिति स्थितिः ।।२