________________
पञ्चमहायज्ञविधिवर्णनम्।
१३५५ अप्युद्धृत्य यथाशक्या किश्चिदन्नं यथाविधि । पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजे ॥७ पितृभ्य इदमित्युक्ता स्वधाकारमुदीरयेत् । हन्तकारं मनुष्येभ्यस्तदः निनयेदपः ।।८ मुनिभिरिसनमुक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां साईप्रथमयामान्तः ।। सायं प्रातर्वैश्वदेषः कर्तव्यो बलिकर्म च । अनश्नतापि सततमन्यथा किल्विषी भवेत् ॥१० अमुष्मै नम इत्येवं बलिदानं विधीयते। बलिदानप्रदानाथं नमस्कारः कृतो यतः ।।११ स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । स्वधाकारः पितृगाच हन्तकारो नृणां कृतः ।।१२ स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा । तदध्येके नमस्कारं कुर्वते नेति गौतमः ॥१३ नावराद्धविलयो भवन्ति महामार्जारश्रवणप्रमाणात् । एकत्र चेदविकृष्टा भवन्तीतरेतरसंसक्ताश्च ।।१४
इति त्रयोदशखण्डः।
॥ चतुर्दशखण्डः ॥
अथ ब्रह्मयज्ञविधिवर्णनम् । अथ तद्विन्यासोवृद्धिपिण्डानिवोत्तरांश्चतुरोवलीन्निध्यात् पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः प्रजापतय इति सव्यत