________________
१३५४ कात्यायनस्मृतिः। [त्रयोदशः छायो यथेच्छेच्छरदातपातः परः पिपासुः क्षुधितोऽलमन्नम् । बालो जनित्री जननी च बालं योषित् पुमांसं पुरुषश्च योषाम् ।।३
तथा सर्वाणि भूतानि स्थावराणि चराणि च । विप्रादुदकमिच्छन्ति सर्वाभ्युदयकृद्धि सः॥४ तस्मात् सदैव कर्तव्यमकुर्वन्महतैनसा। युज्यते ब्राह्मणः कुर्वन्विश्वमेतद्विभत्ति हि ॥५ अल्पत्वाद्धोमकालस्य बहुत्वात् नानकर्मणः । प्रातर्न तनुयात् सानं होमलोपो हि गर्हितः॥६
इति द्वादशखण्डः।
॥ त्रयोदशखण्डः ॥ अथ पञ्चमहायज्ञविधिवर्णनम् । पश्चानामथ सत्राणां महतामुच्यते विधिः। यैरिष्टा सततं विप्रः प्राप्नुयात् सद्म शाश्वतम् ।।१ देवभूतपितृब्राममनुष्याणामनुक्रमात् । महासत्राणि जानीयात् एवेह महामखाः ।।२ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो वलिभौंतो नृयज्ञोऽतिथिपूजनम् ॥२ श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो बलिरथापि वा। यश्च श्रुतिजयः प्रोक्तो ब्रह्मयज्ञः स वोच्यते ॥४ स चार्वाक् तर्पणात् कार्यः पश्चाद्वा प्रातराहुतेः। वैश्वदेवावसाने वा नान्यत्रतौं निमित्तकात् ॥५ अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये । अदेवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥६