________________
१३५३
खण्डः ]
तर्पणविधिवर्णनम्। एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यत्र तिष्ठति। यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥१५ सन्ध्यालोपाञ्च चकितः स्नानशीलश्च यः सदा । तं दोषानोपसर्पन्ति गरुत्मन्तमिवोरगाः ॥१६ वेदमादित आरभ्य शक्तितोऽहरहर्जपेत् । उपतिष्ठेत्ततो रुद्रसर्वाद्वा वैदिकाजपात् ॥१७
इति एकादशः खण्डः।
॥ द्वादशः खण्डः ॥
अथ तर्पणविधिवर्णनम् । अथाद्भिस्तर्पयेद्देवान सतिलाभिः पितृनपि । नमोऽन्ते तर्पयामीति आदावोमीति च ब्रुवन् ॥१ ब्रह्मा विष्णुं रुद्रं प्रजापतिं वेदान् देवांश्छन्दांस्यूषीन् पुराणानाचार्यान् गन्धर्वानितरान्मासं संवत्सरं सावयवं देवीरप्सरसो देवानुगानागान् सागरान् पर्वतान् सरितो दिव्यान् मनुष्यानितरान् मनुष्यान् यक्षान् रक्षासि सुपर्णान् पिशाचान् पृथिवीमोषधीः पशून वनस्पतीन् भूतग्रामं चतुर्विधमित्युपवीत्यथप्राचीनावीती यमं यमपुरुषान् कव्यवाड़नलं सोमं यममर्य्यमणमनिष्वात्तान् सोमपीथान् वर्हिषदोऽथ स्वान् पितृन् सकृत् सकृन्मातामाहांश्चेति प्रतिपुरुषमभ्यस्येज्येष्ठभ्रातृश्वशुरपितृव्यमातुलांश्च पितृवंशमातृवंशी ये चान्ये मत्त उदकमर्हन्ति तांस्तर्पयामीत्ययमवसानाञ्जलिरथ श्लोकाः ।.२