SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १३५२ कात्यायनस्मृतिः। [एकादशः रक्षयेद्वारिणात्मानं परिक्षिप्य समन्ततः। शिरसो मार्जनं कुर्यात् कुशैः सोदकविन्दुभिः ॥४ प्रणवो भूर्भुवःस्वश्च सावित्री च तृतीयका । अब्दैवत्यं व्यूचञ्चैव चतुर्थमिति मार्जनम् ।।५ भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः । महर्जनस्तपः सत्यं गायत्री च शिरस्तथा ॥६ आपोज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरतिशिरः । प्रतीप्रतीकं प्रणवमुच्चारयेदन्ते च शिरसः ॥७ एता एतां सहानेन तथैभिईशभिः सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥८ करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च । जपेदनायतासुर्वा त्रिः सकृद्वाघमर्षणम् ।। उत्थायाकं प्रतिप्रोहेत्रिकेणाञ्जलिनाम्भसः । उच्चित्रमृग्द्वयनाथ चोपतिष्ठेदनन्तरम् ॥१० सन्ध्याद्वयेऽप्युपस्थानमेतदाहुर्मनीषिणः । मध्ये त्वह्न उपर्यस्य विभ्राडादीच्छया जपेत् ।।११ तदसंसक्तपाणिर्वा एकापादई पादपि।। कुर्यात् कृताञ्जलिर्वापि ऊर्ध्वबाहुरथापि वा ।।१२ यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छाच्छ्रे यो ह्यवाप्यते ॥१३ तिष्ठेदुदयनात् पूर्वा मध्यमामपि शक्तितः । आनीतोडुद्गमाचान्त्यां सन्ध्यां पूर्वावक्र जपन् ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy