________________
खण्डः ]
प्रातःकालिकस्नानादिक्रियावर्णनम् ।
ऋषीणां सिच्यमानानामन्तरालं समाश्रितः । संपिबेद् यः शरीरेण पर्षन्मुक्तजल छुटाः ॥११ विद्यादीन् ब्राह्मणः कामान् वरादीन् कन्यका ध्रुवम् । आमुष्मिकान्यपि सुखान्याप्नुयात् स न संशयः ॥ १२
अशुच्यशुचिना दत्तमाममन्तर्जलादिना । अनिर्गतदशाहास्तु प्रेवा रक्षांसि भुञ्जते ॥ १३ स्वर्धुन्यम्भः समानि स्युः सर्वाण्यम्भांसि भूतले । पान्यपि सोमार्कग्रहणे नात्र संशयः ॥१४
१३५१
इति दशमः खण्डः |
इति कर्मप्रदीपपरिशिष्टे कात्यायनविरचिते प्रथमः प्रपाठकः ।
॥ एकादशः खण्डः ॥ अथ सन्ध्योपासनविधिवर्णनम् ।
अत ऊदूर्ध्वं प्रवक्ष्यामि सन्ध्योपासनकं विधिम् । अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः ॥ १ सव्ये पाणौ कुशान् कृत्वा कुर्यादाचमनक्रियाम् । हस्वाः प्रचरणीयाः स्युः कुशा दीर्घास्तु वर्हिषः ॥२ दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकर्मणि । सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः ॥ ३