________________
१३५०
कात्यायनस्मृतिः।
॥ दशमः खण्डः।। अथ प्रातःकालिकस्नानादिक्रियावर्णनम् । यथाहनि तथा प्रातनित्यं खायादनातुरः। दन्तान प्रक्षाल्य नद्यादौ गृहे चेत्तदमत्रवत् ॥१ नारदाधुक्तवाक्षं यदाष्टाङ्गुलमपाटितम् ।। सत्वचं दन्तकाष्ठं स्यात्तहण प्रधावयेत्॥२ उत्थाय ने प्रक्षाल्य शुचिर्भूत्वा समाहितः। परिजप्य च मन्त्रेण भक्षयेहन्तधावनम् ॥३ आयुर्बलं यशोवर्थः प्रजाःपशुन् वसूनि च । ब्रह्मप्रज्ञाथ मेधाश्च त्वन्नो देहि वनस्पत ॥४. यव्यवयं श्रावणादि सर्वा नद्यो रजस्वलाः । वासुस्मानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥५ धनुःसहस्राण्यष्टौ तु गतिर्यासां न विद्यते। न ता नदीः शब्दवहा गर्तान्ताः परिकीर्तिताः ।। उपाकर्मणि चोत्सर्गे प्रेतनाने तथैव च । चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥७ वेदाश्छन्दांसि सर्वाणि ब्रह्माद्याश्च दिवौकसः । जलाथिनोऽथ पितरो मरीच्याद्यास्तथर्षयः ।।८ उपाकमणि चोत्सर्ग मानार्थ ब्रह्मवादिनः।। यियासूननुगच्छन्ति सन्तुष्टाः स्वशरीरिणः ॥8 समागमस्तु यत्रैषां तत्र हत्यादयोमलाः । नूनं सर्वे भयं यान्ति किमुतेकं नदीरजः ॥१०