________________
कात्यायनस्मृतिः।
[अष्टमः
.
॥ अष्टमः खण्डः ॥
अथ सयज्ञस्रुवसमिधलक्षणवर्णनम् ।
परिधायाहतं वासः प्रावृत्य च यथाविधि । विभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया ॥१ चत्रवृध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः। कृत्वोत्तराग्रामरणिं तद्बध्नमुपरिन्यसेत् ॥२ .. चत्राधेः कीलकाग्रस्था मोविलीमुदगग्रकाम् । विष्टम्भाद्धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः॥३ त्रिरुद्वेष्ट्याथ नेत्रेण चत्रं पल्यो हतांशुकाः । पूर्व मथ्नन्त्यरण्यान्त्याः प्राच्यग्नेः स्याद्यथा च्युतिः ॥४ नैकयापि विना कार्यमाधानं भायंया द्विजैः । अकृतं तद्विजानीयात् सन्विाचारभन्ति यत् ॥५ वर्णज्यैष्ठ्य ने वहीभिः सवर्णाभिश्च जन्मतः । कार्यमग्निच्युतेराभिः साध्वीभिर्मथनं पुनः॥६ नात्र शूद्रीं प्रयुञ्जीत न द्रोहद्वेषकारिणीम् । नवाव्रतस्थां नान्यपुंसा च सह सङ्गताम् ।।७ ततः शक्ततरा पश्चादासामन्यतरापिवा । उपेतानां वान्यतमा मन्थेदग्नि निकामतः ।।८ जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च । आधाय समिधं चैव ब्रह्माणं चोपवेशयेत् ।।