________________
१३४५
खण्डः] सयज्ञवसमिधलक्षणवर्णनम् ।
अष्टाङ्गुलः प्रमन्थः स्याच्चत्रं स्याद्वादशाङ्गुलम् । ओवीली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥५ अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्र यत्रोपदिश्यते । तत्र तत्र वृहत्पर्वग्रन्थिनिर्मिनुयात् सदा ॥६ गोवालैः शणसंमिस्त्रिवृत्तममलात्मकम् । व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेन पावकः ॥७ मूर्दाक्षिकर्णवक्ताणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि द्वयङ्गुष्ठं वक्ष उच्यते ॥८ अङ्गुष्ठमात्रं हृदयं व्यङ्गुष्ठमुदरं स्मृतम् । एकाङ्गुष्ठा कटिज़ैया द्वौ वस्ति द्वौ च गुह्यकम् ।। ऊरू जङ्घ च पादौ च चतुस्त्येकैर्यथाक्रमम् । अरण्यवयवाह्यते याज्ञिकैः परिकीर्तिताः॥१० यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । अस्यां यो जायते वह्निः स कल्याणकृदुच्यते॥११ अन्येषु ये तु मथ्नन्ति ते रोगभयमाप्नुयुः । प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च ॥१२ उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत् । योनिसङ्करदोषेण युज्यते ह्यन्यमन्थकृत् ॥१३ आर्द्रा सशुषिरा चैव घूर्णाङ्गी पाटिता तथा। न हिता यजमानानामरणिश्चोत्तरारणिः ॥१४
इति सप्तमः खण्डः।