________________
१३४४ कात्यायनस्मृतिः।
[सप्तमः मानक्रियायामुक्तायामनुक्ते मानकर्तरि । मानकृद्यजमानः स्याद्विदुषामेव निश्चयः ॥११ पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते । अनवुकत्वं यत्तस्य काम्यैस्तनीयते शमम् ॥१२ यस्य दत्ता भवेत् कन्या बाचा सत्येन केनचित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥१३ अनूदैव तु सा कन्या पञ्चत्वं यदि गच्छति । न तथा व्रतलोपोऽस्य तेनैवान्यां समुद्हेत् ॥१४ अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात् कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥१५
इति षष्ठः खण्डः ।
॥ सप्तमः खण्डः ॥ अथशमीगर्भाधनेकप्ररणवर्णनम् । अश्वत्था यः शमीगर्भः प्रशस्तोींसमुद्भवः । तस्य या प्रामुखी शाखा वादीची वार्ध्वगापि वा ॥१ अरणिस्तन्मयी प्रोक्ता तन्मय्येवोत्तरारणिः । सारवहारवचत्रमाविली च प्रशस्यते ॥२ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते । अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः ॥३ चतुर्विंशतिरङ्गुष्ठदैव्यं षडपि पार्थिवम् । चत्वार उच्छ्ये मानमरण्याः परिकीर्तितम् ॥४