________________
१३४३
खण्डः]
अनेककर्मवर्णनम्। ॥ षष्ठः खण्डः ।।
अथानेककर्मवर्णनम्। आधानकाला ये प्रोक्तास्तथा यश्चाग्नियोनयः। तदाश्रयोऽग्निमादध्यादग्निमानग्रजो यदि ॥१ . दाराधिगमनाधाने यः कुर्यादप्रजाग्रिमः। परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥२ परिवित्तिपरिवेत्तारौ नरकं गच्छतो ध्रुवम् । अपि चीर्णप्रायश्चित्तौ पादोनफलभागिनौ ॥३ देशान्तरस्थक्लीवैकवृषणानसहोदरान् । वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥४ जडमूकान्धवधिरकुब्जवामनकुण्ठकान् । अतिवृद्धानभायांश्च कृषिसक्तानृपस्य च ॥५ धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ॥६ धनवाछुषिकं राजसेवकं कमकस्तथा । प्रोषितञ्च प्रतीक्षेत वर्षत्रयमपि त्वरन् ॥७ प्रोषितं यद्यशृण्वानमब्दावं समाचरेत् । आगते तु पुनस्तस्मिन् पादं तच्छुद्धये चरेत् ॥८ लक्षणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम् । तन्मूलसक्ता योदीची तस्या एतन्नवोत्तरम् ॥ उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिकाः । सप्तसप्ताङ्गुलस्त्यिक्त्वाकुशेनैव समुल्लिखेत् ॥१०