________________
कात्यायनस्मृतिः ।
आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्शे च पौर्णमासे तथैव च ॥२ नवयज्ञे च यज्ञज्ञावदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक् पृथक् ॥३ नाष्टकासु भवेच्छ्राद्धं न श्राद्ध श्राद्धमिष्यते । न सोष्यन्तीजातकर्म प्रोषितागतकर्मसु ॥४ विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुम यस्य चान्ते । विवाहादावेकमेवात्र कुर्याच्छ्राद्धं नादौ कर्मणः कर्मणः स्यात् ॥५ प्रदोषे श्राद्धमेकं स्याद्गोनिष्कामप्रवेशयोः । न श्राद्ध युज्यते कर्त्तुं प्रथमे पुष्टिकर्मणि ॥ ६ हलाभियोगादिषु तु षट्सु कुर्यात् पृथक् पृथक् । प्रतिप्रयोगमप्येवानादावेकन्तु कारयेत् ॥७ वृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविन्यतोः । सूर्येन्द्वोः कर्मणी ये तु तयोः श्राद्ध' न विद्यते ॥८ न दशाग्रन्थिके चैव विषवद्दष्टकर्मणि । कृमिदष्ट चिकित्सायां नैव शेषेषु विद्यते ॥६ गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ॥ १० यत्र तत्र भवेच्छ्राद्ध ं तत्र तत्र च मातरः । प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते ॥११
इति पञ्चमः खण्डः ।
१३४२
[ पञ्चमः