________________
[चतुर्थ:
१३४०
कात्यायनस्मृतिः। प्रागप्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति पात्रतः॥११ द्वियीयञ्च तृतीयञ्च मध्यदेशानदेशयोः । मातामहप्रभृतींस्त्रीनेतेवामेव वामतः॥१२ सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवककन्धूदधिभिः प्राङ्मुखस्ततः ॥१३ अवनेजनवत् पिण्डान् दत्त्वा बिल्वप्रमाणकान् । तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ॥१४
इति तृतीयः खण्डः ।
॥ चतुर्थः खण्डः ॥
अथ श्राद्धप्रकरणवर्णनम्। उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः। भवेदधश्चाधराणामधरश्राद्धकर्मणि ॥१ तस्माच्छ्राद्ध षु सर्वेषु वृद्धिमत्स्वितरेषु च । मूलमध्यानदेशेषु ईषत्सक्तांश्च निर्वपेत् ॥२ गन्धादीन्निः क्षिपेत्तूष्णीं तत आचामयेद् द्विजान् । अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः॥३ दक्षिणाप्लवने देशे दक्षिणाभिमुखस्य च । दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः॥४