SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १३३६ खण्डः ] त्रिविधक्रियावर्णनम्। ॥ तृतीयः खण्डः ॥ अथ त्रिविधक्रियावर्णनम्।। अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया ॥१ स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः । कर्तुमिच्छति दुर्मेधा मोघं तत्तस्य चेष्टितम् ॥२ यन्नाम्नातं स्वशःखायां परोक्तमविरोधि च । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् ॥३ प्रवृत्तमन्यथा कुर्याद्यदि मोहात् कथञ्चन । यतस्तदन्यथाभूतं तत एव समापयेत् ।।४ समाप्ते यदि जानीयान्मयैतदयथाकृतम् । तावदेव पुनः कुर्यान्नावृत्तिः सर्वकर्मणः ॥५ प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायाञ्च नावृत्तिनैव तक्रिया ॥६ मधुमध्वितियस्तत्र त्रिजपोऽशितुमिच्छताम् । गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः ॥७ नचाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् । अन्य एव जपः कार्यः सोमसामादिकः शुभः ।।८ यस्तत्र प्रकरोऽन्नस्य तिलवद् यववत्तथा । उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः॥ सम्पन्न मिति तृप्ताः स्थ प्रश्नस्थाने विधीयते। सुसम्पन्न मिति प्रोक्ते शेषमन्नं निवेदयेत् ॥१०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy