________________
१३३७
खण्डः ] नित्यनैमित्तिक (श्राद्ध) कर्मवर्णनम् ।
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः। षड्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमेत् ॥१६ अनिष्वा तु पितं च्छ्राद्धे न कुर्यात् कर्म वैदिकम् । तत्रापि मातरः पूर्व पूजनीयाः प्रयत्नतः ।।१७ वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः । अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ।।१८
इति प्रथमः खण्डः।
॥ द्वितीयः खण्डः ॥ अथ नित्यनैमित्तिक (श्राद्ध) कर्म वर्णनम् । प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा । उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना ॥१ हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः । समूलाः पितृदेवत्याः कल्माषा वैश्वदेविकाः ॥२ हरिता वै सपिञ्जलाः शुष्काः स्निग्धाः समाहिताः। रनिमात्राः प्रमाणेन पितृतीर्थेन संस्कृताः ॥३ पिण्डाथं ये स्तृता दर्भास्तर्पणार्थ तथैव च । धृतैः कृते च विण्मूत्रे त्यागरतेषां विधीयते ॥४ दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरज्जानु पितृन परिचरन्नपि ॥५